श्री व्यंकटेश स्तोत्र
व्यंकटेशो वासुदेवः प्रद्युम्नोऽमितविक्रमः।
संकर्षणो अनिरुद्धश्र्च शेषाद्रिपतिरेवचः ॥१॥
जनार्दनः पद्मनामो वेंकटाचलवासिनः ।
सृष्टीकर्ता जगन्नाथो माधवो भक्तवत्सलः॥२॥
गोविंदो गोपतिः कृष्णः केशवो गरुडध्वजः ।
वराहो वामनश्चैव नारायण अधोक्षजः ॥३॥
श्रीधरः पुंडरिकाक्षः सर्वदेवस्तुतो हरीः ।
श्रीनृसिंहो महासिंहः सूत्राकारः पुरातनः ॥४॥
रमानाथो महाभर्ता मधुरः पुरुषोत्तमः ।
चोलपुत्रप्रियः शांतो ब्रह्मादिनां वरप्रदः ॥५॥
श्रीनिधिः सर्वभूतानां भयकृद् भयनाशनः ।
श्रीरामो रामभद्रश्च भवबंधैकमोचकः ॥६॥
भूतावासो गिरावासः श्रीनिवासः श्रियःपतिः
अच्युतानंद गोविंद विष्णुर्वेंकटनायकः ॥७॥
सर्वदेवैकशरणं सर्वदेवैकदैवतं ।
समस्तदेवकवचं सर्वदेवशिखामणिः ॥८॥
इतीदं कीर्तितं यस्य विष्णोरमिततेजसः ।
त्रिकाले यः पठेन्नित्यं पापं तस्य न विद्यते ॥९॥
राजद्वारे पठेद् घोरे संग्रामे रिपुसंकटे ।
भूत-सर्प-पिशाचादि भयं नास्ति कदाचन ॥१०॥
अपुत्रो लभते पुत्रान् निर्धनो धनवान्भवेत् ।
रोगार्ते मुच्यते रोगात् बद्धो मुच्येत बंधनात् ॥११॥
यद् यदिष्टतमं लोके तत् तत् प्राप्नोत्यसंशयः ।
ऐश्वर्यं राजसंन्मानं भुक्तिमुक्तिफलप्रदम् ॥१२॥
विष्णोर्लोकैकसोपानं सर्वदुःखैकनाशनं ।
सर्वऐश्वर्यप्रदं नृणां सर्वमंगलकारकम् ॥१३॥
मायावी परमानंद त्यक्त्वा वैकूठमुत्तमं ।
स्वामिपुष्करिणीतीरे रमया सह मोदते ॥१४॥
कल्याणाद्भूत गात्राय कामितार्थप्रदायिने ।
श्रीमद् वेंकटनाथाय श्रीनिवासाय ते नमः ॥१५॥
॥श्रीकृष्णार्पणमस्तु॥